|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.251. अध्यायः 251
Mahabharata - Vana Parva - Chapter Topics
कर्णेन बहुधा प्रार्थनेपि दुर्योधनेन प्रायोपवेशाध्यवसायादपरावर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
कर्ण उवाच। 3-251-0x(2616)(25659)
राजन्नद्यावगच्छामि तवैव लघुसत्वताम्।
`अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्' ॥ 3-251-1(25660)
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि।
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ 3-251-2(25661)
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः।
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥ 3-251-3(25662)
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम्।
निगृह्यन्ते चयुद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥ 3-251-4(25663)
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः।
तैः संगम्य नृपार्थाय यतितव्यं यथातथम् ॥ 3-251-5(25664)
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः।
यदृच्छया मोक्षितोऽसि कतत्रका परिदेवना ॥ 3-251-6(25665)
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम्।
स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः ॥ 3-251-7(25666)
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः।
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥ 3-251-8(25667)
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे।
सत्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ॥ 3-251-9(25668)
`तदलं ते महाबाहो विषादं कर्तुमीदृशम्'।
उत्तिष्ठ रराजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥ 3-251-10(25669)
अवश्यमेव नृपते राज्ञो विषयवासिभिः।
प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥ 3-251-11(25670)
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि।
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥ 3-251-12(25671)
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभः।
प्रायोपविष्टस्तु तथा राज्ञां हास्यो भविष्यसि ॥ 3-251-13(25672)
वैशंबायन उवाच। 3-251-14x(2617)
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥ 3-251-14(25673)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि एकपञ्चाशदधिकद्विशततमोऽध्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-251-8 भवतस्ते सहाया वै इति झ. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|